Durga Pooja | संक्षिप्त दुर्गा पूजन करने की सही विधि मंत्र सहित

Durga Poojan Vidhi: चारों नवरात्रों, दुर्गा पूजा व अन्य अवसरों पर दुर्गा माँ की पूजा व आराधना की जाती है। हर भक्त को माँ दुर्गा के पूजन की सही विधि व मंत्र ज्ञान नहीं होता है, इसी समस्या को ध्यान में रखकर हमनें माँ श्री दुर्गा पूजन की सही विधि, मंत्रों के साथ प्रकाशित की है। जिससे माँ दुर्गा की पूजा विधि विधान के साथ की जा सकती है। 

Table of Contents

दुर्गा पूजा विधि मंत्र

सबसे पहले माता दुर्गा का ध्यान करें
सर्व मंगल मागंल्ये शिवे सर्वार्थ साधिके ।
शरण्येत्रयम्बिके गौरी नारायणी नमोस्तुते ॥

अथ नवार्णविधि: (नौ वर्ण वाला मंत्र)

विनियोग:- ॐ अस्य श्रीनवार्णमन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषय:, गायत्र्युष्णिगनुष्टुभश्छदांसि, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवता:, ऐं बीजम्, ह्नीं शक्ति:, क्लीं कीलकम्, श्रीमहाकाली-महालक्ष्मी-महासरस्वतीप्रीत्यर्थे न्यासे पूजने च विनियोग: ।

ऋष्यादिन्यास:- ब्रह्मविष्णुरुद्रऋषिभ्यो नम: शिरसि। गायत्र्युष्णिण-गनुष्टुप्छन्दोभ्यो नम: मुखे। महाकाली-महालक्ष्मी-महासरस्वतीदेवताभ्यो नम: हृदि। ऐं बीजाय नम: गुह्ये। ह्वीं शक्तये नम: पादयो:। क्लीं कीलकाय नम: नाभौ।

ॐ ऐं ह्वीं क्लीं चामुण्डायै विच्चै इति करतल-करपृष्ठाभ्यां नम:।

करन्यास:- ॐ ऐं अङ्गुष्ठाभ्यां नम:। ॐ ह्नीं तर्जनीभ्यां नम:। ॐ क्लीं मध्यमाभ्यां नम:। ॐ चामुण्डायै अनामिकाभ्यां नम: । ॐ विच्चे कनिष्ठिकाभ्यां नम: । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे करतल-करपृष्ठाभ्यां नम: ।

हृदयादिन्यास:- ॐ ऐं हृदयाय नम: । ॐ ह्नीं शिरसे स्वाहा । ॐ क्लीं शिखायै वषट् । ॐ चामुण्डायै कवचाय हुम् । ॐ विच्चे नेत्रत्रयाय वौषट् । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे अस्त्राय फट् ।

अक्षरन्यास:- ॐ ऐं नम: शिखायाम् । ॐ ह्नीं नमो दक्षिणनेत्रे । ॐ क्लीं नमो वामनेत्रे । ॐ चां नमो दक्षिणकर्णे । ॐ मुं नमो वामकर्णे । ॐ डां नमो दक्षिणनासायाम् । ॐ यैं नमो वामनासायाम् । ॐ विं नमो मुखे । ॐ च्चें नमो गुह्ये । एवं विन्यस्य ‘ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे’  इति नवार्णमन्त्रेण अष्टवारं व्यापकं कुर्यात् ।

दिङ्न्यास:- ॐ ऐं प्राच्यै नम: । ॐ ऐं आग्नेय्यै नम: । ॐ ह्नीं नैऋत्यै नम: । ॐ क्लीं प्रतीच्यै नम: । ॐ क्लीं वायव्यै नम: । ॐ चामुण्डायै उदीच्यै नम: । ॐ चामुण्डायै ऐशान्यै नम: । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे ऊर्ध्वायै नम: । ॐ ऐं ह्नीं क्लीं चामुण्डायै विच्चे भूम्यै नम: ।

ध्यानम्

खड्गं चक्रगदेषुचापपरिधाञ्छूलं भुशुण्डीं शिर:
शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ।
नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां
यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥१॥

अक्षस्नक्‌परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं धण्टां सुरभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तै: प्रसन्नाननां
सेवे सैरिभमदिंनीमिह महालक्ष्मीं सरोजस्थिताम् ॥२॥

धण्टाशूलहलानि शङ्खमुसले चकं धनु: सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छोतांशुतुल्यप्रभाप् ।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-पूर्वामत्र
सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥३॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: श्री दुर्गां ध्यायामि ।

आवाहनम्

ॐ हिरण्यवर्णां हरिणों सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

आगच्छ वरदे देवि दैत्यदर्पनिषूदिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आवाहनं समर्पयामि ।
आवाहनार्थे पुष्पाणि समर्पयामि ।
(पुष्प अर्पित करें।)

आसनम्  (आसन देना)

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥

अनेकरत्नसंयुक्तं नानामणिसमन्वितम् ।
कार्तस्वरमयं दिव्यमासनं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आसनं. समर्पयामि ।
आसनार्थे अक्षतान् समर्पयामि ।
(अक्षत को आसन पर छोड़े)

पाद्यम्

ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥

गङ्गादिसर्वतीर्थेभ्यो मया प्रार्थनयाहृतम् ।
तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: पाद्यं समर्पयामि ।
(पैर धुलाएं)

अर्ध्यम्

ॐ कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ।

गन्धपुष्पाक्षतैर्युक्तमर्ध्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: अर्ध्यं समर्पयामि ।
(चावल, फूल व हार अर्पित करें)

मधुपर्क:

ॐ यन्मधुनो मधव्यं परमर्ठ० रूपमन्नाद्यम् ।
तेनाहं मधुनो मधव्येन परमेण रूपेणाद्यान्नेन परमो मधव्योऽन्नादोऽसानि ॥

दधिमध्वाज्यसंयुक्तं पात्रयुग्मसमन्वितम् ।
मधुपर्कं गृहाण त्वं वरदा भव शोभने ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: मधुपर्कं समर्पयामि ।
(पंचामृत अर्पित करें)

आचमनम्

आचम्यतां त्वया देवि भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्र च पराङ्गतिम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल दे)

स्नानम्

ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥

जाह्नवीतोयमानीतं शुभं कर्पूरसंयुतम् ।
स्नापयामि सुरश्रेष्ठे त्वां पुत्रादिफलप्रदाम् ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: स्नानीयं जलं समर्पयामि ।
(जल से स्नान करये)

पञ्चामृत स्नानम्

ॐ पञ्च नद्य: सरस्वतीमपियन्ति सस्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

पयो दधि घृतं क्षौद्रं सितया च समन्वितम् ।
पञ्चामृतमनेनाद्य कुरु स्नानं दयानिधे ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: पञ्चामृतस्नानं समर्पयामि ।
पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

आचमनीयं जलं समर्पयामि ।
(पंचामृत से स्नान कराये पश्चात जल से करये)

शुद्धोदक स्नानम्

ॐ शुद्धबाल: सर्व्वशुद्धबालो मणिवालस्त ऽआश्विना: ।
श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्ण्णा वामा
ऽअवलिप्ता रौद्‌द्रा नभोरूपा: पार्ज्जन्या: ॥
परमानन्दबोधाब्धनिमग्ननिजमूर्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीशिते ।
ॐ भूर्भुव: स्व दुर्गादेव्यै नम: शुद्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(शुद्ध जल से स्नान कराये)

वस्त्रम्

ॐ सुजातो ज्ज्योतिषा सह शर्म्म व्वरूथ मासदत्स्व: ।
व्वासो ऽअग्ने व्विश्वरूपर्ठ० संव्ययस्व व्विभावसो ॥

वस्त्रञ्च सोमदैवात्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व दुर्गादेव्यै नम: वस्त्रं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।
(वस्त्र समर्पित करे पश्चात आचमन के लिये जल दे)

उपवस्त्रम्

ॐ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्व: ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्मा अलक्ष्मी: ॥

यामाश्रित्य महामाया जगत्सम्मोहिनी सदा ।
तस्यै ते परमेशायै कल्पयाम्युत्तरीयकम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: उपवस्त्रं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

(उपवस्त्र समर्पित करे पश्चात आचमन के लिये जल दे)

यज्ञोपवीवम्

ॐ उपैतु मां देवसख: कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रे ऽस्मिन् कीर्तिं वृद्धिं ददातु मे ॥

स्वर्णसूत्रमयं दिव्यं ब्रह्मणा निर्मितं पुरा ।
उपवीतं मया दत्तं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

(जनेऊ, यज्ञ सूत्र अर्पित करें पश्चात आचमन के लिये जल दे)

सौभाग्य स्‌त्रम्

ॐ सौभाग्यसूत्रं वरदे ! सुवर्ण-मणि-संयुतम् ।
कण्ठे बध्नामि देवेशि ! सौभाग्यं देहि मे सदा ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सौभाग्यसूत्रं समर्पयामि ।

(मंगल सूत्र अर्पित करें)

हरिद्राचूर्णम्

ॐ क्षुप्तिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥

ॐ तत्सूर्यस्य देवत्वं तन्महित्वं
मध्या कर्तोर्व्विततर्ठ० सं जभार ।
वदेदयुक्त हरित: सधस्थादाद्रात्री ।
व्वासस्तनुते सिमस्मै ॥

हरिद्रारञ्जिते देवि सुख-सौभाग्यदायिनि ।
तस्मात्त्वां पूजयाम्यत्र मुखं शान्तिं प्रयच्छ मे ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  हरिद्राचूर्णं समर्पयामि ।

(हल्दी अर्पित करें)

गन्ध: चन्दनम्

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम्
विलेपनं च देवेशि चन्दनं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: गन्धं समर्पयामि ।
(केसर मिश्रित चन्दन अर्पित करें)

अक्षता:

ॐ अक्षन्नमीमदन्त ह्यव प्प्रिया ऽअधूषत् ।
अस्तोषत स्वभानवो व्विप्प्रा नविष्ठया मती वोजान्विन्द्रते हरी ॥

अक्षतान्निर्मलान् दिव्यान् कुङ्कुमाक्तान् सुशोभनान् ।
गृहाणेमान् महादेवि प्रसीद परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: अक्षतान् समर्पयामि ।
(अक्षत अर्पित करें)

कुङ्कुमम् (गुलालम्)

कुङ्कुमं कान्तिदं दिव्यं कामिनीकामसम्भवम् ।
कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: कुङ्कुमं समर्पयामि ।
(गुलाल अर्पित करें)

सिन्दूरम्

ॐ सिन्धोरिव प्राद्‌ध्वने शूधनासो
व्वातप्प्रमिय: पतयन्ति वह्वा: ।
घृतस्य धारा ऽअरुषो न व्वाजी
काष्ठा भिन्दन्नूर्मिभि: पिन्वमान: ॥

सिन्दूरमरुणाभासं जपा-कुसुम-सन्निभम् ।
पूजितासि मया देवि प्रसीद परमेश्वरि ।

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  सिन्दूरं समर्पयामि ।
(सिन्दुर अर्पित करे)

कज्जलम्

ॐ व्वृत्त्रस्यासि कनीनकश्चक्षुर्द्दा ऽअसि चक्षुर्म्मे देहि ॥
चक्षुर्भ्यां कज्जलं रम्यं सुभगे शान्तिकारकम् ।
कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: कज्जलं समर्पयामि ।
(कज्जल अर्पित करे)

दूर्वाङ्कुरा:

ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परि ।
एवा नो दूर्व्वे प्प्रतनु सहस्रेण शतेन च ॥

दूर्बादले श्यामले त्वं महीरूपे हरिप्रिये ।
दूर्वाभिराभिर्भवती पूजयामि सदा शिवे ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दूर्वाङ्कुरान् समर्पयामि ।
(दूर्वा अर्पित करे)

बिल्वपत्राणि

ॐ नमो बिल्मिने च कवचिने च
नमो व्वर्म्मिणे च व्वरूथिने च
नम: श्श्रुताय च श्श्रुतसेनाय च
नमो दुन्दुब्भ्याय चाहनन्याय च ॥

अमृतोद्भव: श्रीवृक्षो महादेवप्रिय: सदा ।
बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: बिल्वपत्राणि समर्पयामि ।
(बेलपत्र अर्पित करें)

आभूषणम्

ॐ मनस: काममाकूर्ति व्वाच: सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्री: श्रयतां यशा: ॥

हार-कङ्कण-केयूर-मेखला-कुण्डलादिभि: ।
रत्नाढयं कुण्डलोपेतं भूषणं प्रतिगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: आभूषणं समर्पयामि ।
(आभूषण अर्पित करें)

पुष्पमाला

ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्त्रे
पार्श्वे नक्षत्त्राणि रूपमश्विनौ व्यात्तम् ।

इष्ण्णन्निषाणामुम्म ऽइषाण
सर्व्वलोकं म ऽइषाण ॥

सुरभि: पुष्पनिचयै: ग्रथितां शुभमालिकाम् ।
ददामि तव शोभार्थं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: पुष्पमालां समर्पयामि ।
(पुष्पमाला अर्पित करें)

नानापरिमलद्रव्याणि

ॐ अहिरिव भोगै: पर्व्वेति बाहुँ
ज्ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो व्विश्वा व्वयुनानि व्विद्वान्।
पुमान् पुमा सं परिपातु व्विश्वत: ॥

अवीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलं द्रव्यं गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: नानापरिमलद्रव्याणि समर्पपामि ।

(अबीर, गुलाल, पुष्प इत्यादि अर्पित करें।)

सौभाग्यद्रव्याणि (सौभाग्य पिटारी)

ॐ कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥

हरिद्रा कुङ्कुमं चैव सिन्दूरादिसमन्वितम् ।
सौभाग्यद्रव्यमेतद्वै गृहाण परमेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सौभाग्यद्रव्यं समर्पयामि ।

सुगन्धिद्रब्यम्

ॐ त्र्यम्बकं वजामहे सुगर्न्धि पुष्टिवर्द्धनम् ।
उर्व्वारुकमित्र बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥

चन्दनागुरुकर्पूरै: संयुतं कुङ्कुमं तथा ।
कस्तूर्यादिसुगन्धांश्च सर्वाङ्गेषु विलेपनम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: सुगन्धिद्रव्यं समर्पयामि ।
(सुगन्धित द्रव्य अर्पण करे)

धूप:

ॐ धूरसि धूर्व्व धूर्व्वन्तं धूर्व्व तं
वोऽस्मान् धूर्व्वति तं धूर्व्व यं व्वयं धूर्व्वाम: ।
देवानामसि व्वह्नितमर्ठ० सस्नितमं
पप्प्रितमं जुष्टतमं देवहूतमम् ॥

दशाङ्गुग्गुलं धूपं चन्दनागुरुसंयुतम् ।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: धूपमाघ्रापयमि ।
(धूप दिखाये)

दीप:

ॐ चन्द्रमा मनसो जातश्चक्षो: सूर्व्वो ऽअजायत ।
श्रोञ्राद् व्वायुश्च प्प्राणश्च मुखादग्निरजायत ॥

घृतवर्तिसमायुक्तं महातेजो महोज्ज्वलप् ।
दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: दीपं सर्शयामि ।
(दीप दिखाये)

नैवेद्यम्

ॐ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्यमालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥
अन्नं बहुविधं स्वादु रसै: षड्‌भि: समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्तिं मे ह्यचलां कुरु ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  नैवेद्यं निवेदयामि ।
(नैवेद्य निवेदित करे)

करोद्वर्त्तनम् (गन्ध:)

ॐ अर्ठ० सुनाते अर्ठ० शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो ऽअच्युत: ॥

करोद्वर्त्तनकं देवि ! सुगन्धै: परिवासितै: ।
गृहीत्वा मे वरं देहि परत्र च परां गतिम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  करोद्वर्त्तनार्थे गन्धं समर्पयामि ।
हस्तप्रक्षालनार्थं जलं समर्पयामि ।

ऋतुफलानि

ॐ वा: फलिनीर्व्वा ऽअफला ऽअपुष्पावाश्च पुष्पिणी: ।
बृहस्पतिप्प्रसूतास्तानो मुञ्चन्त्वर्ठ० हस: ॥

नारिकेलं च नारिङ्गं कलिङ्गं मञ्जिरं तथा ।
उर्वारुकं च देवेशि फलान्येतानि गृह्मताम् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: ऋतुफलानि समर्पयामि ।
(ऋतुफल अर्पित करे)

ताम्बूलम्

ॐ उत स्मास्य द्‌द्रवतस्तुरण्यत:
पर्ण्णन्न वेरनुवाति प्प्रगर्द्धिन: ।

श्येनस्येव द्‌ध्रजतो ऽअङ्कसम्परिदधि-
क्राब्ण: सहोर्ज्जा तरित्रत: स्वाहा ॥

एला-लवङ्ग-कस्तूरी-कर्पूरै: पुष्पवासिताम् ।
वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: मुखवासार्थे ताम्बूलं समर्पयामि ।
(इलायची, लौंग-सुपारी के साथ ताम्बूल (पान) अर्पित करे)

दक्षिणा

ॐ हिरण्यगर्ब्भ: समवर्त्तताग्ग्रे भूतस्य जात: पतिरेक ऽआसीत् ।
स दाधार पृथिवीं द्यामुते मां कस्मै देवाय हविषा व्विधेम ॥

पूजाफलसमृद्धयर्थं तवाग्रे परमेश्वरि ।
अर्पितं तेन मे प्रीता पूर्णान् कुरु मनोरथान् ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  दक्षिणां समर्पयामि ।
(द्रव्य दक्षिणा समर्पित करे)

नमस्कार:

ॐ आर्द्रां य: करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

नम: सर्वहितार्थाय जगदाधारहेतवे ।
नमस्ते जगतां धात्रि नसस्ते भक्तवत्सले ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  नमस्कारं समर्पयामि ।
(नमस्कार करे)

प्रदक्षिणा

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतिं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥

यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: प्रदक्षिणां समर्पयामि ।

पुष्पाञ्जलि:

ॐ य: शुचि: प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकाम: सततं जपेत् ॥

ॐ वज्ञेन वज्ञमयजन्त देवास्तानि धर्म्माणि प्रथमान्यासन्।
ते ह नाकं महिमान: सचन्त वत्र पूर्व्वे साध्या: सन्ति देवा: ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम: पुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि अर्पित करे)

आरार्तिक्यम् (आरती)

ॐ इदर्ठ० हवि: प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्व्वगणर्ठ० स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्नि: प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ॥१॥

ॐ आ राञ्रि पार्थिवर्ठ० रज: पितुरप्प्रायि धामभि: ।
दिव: सदा, सि बृहती व्वि तिष्ठस ऽआ त्त्वेषं व्वर्त्तते तम: ॥२॥

ॐ अग्निर्द्देवता व्वातो देवता सूर्व्वो देवता चन्द्रमा देवता
व्वसवो देवता रुद्‌द्रा देवताऽऽदित्या देवता मरुतो
देवता व्विश्वे देवा देवता बृहस्पतिर्द्देवतेन्द्रो देवता व्वरूणो देवता ॥३॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेम्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

श्री अम्बा जी की आरती

जय अम्बे गौरी, मैया जय श्यामा गौरी।
तुमको निशिदिन ध्यावत, हरि ब्रह्मा शिवरी॥
जय अम्बे गौरी….

माँग सिन्दूर विराजत, टीको मृगमद को।
उज्जवल से दो‌उ नैना, चन्द्रवदन नीको॥
जय अम्बे गौरी….

कनक समान कलेवर, रक्ताम्बर राजै।
रक्तपुष्प गल माला, कण्ठन पर साजै॥
जय अम्बे गौरी….

केहरि वाहन राजत, खड्ग खप्परधारी।
सुर-नर-मुनि-जन सेवत, तिनके दुखहारी॥
जय अम्बे गौरी….

कानन कुण्डल शोभित, नासाग्रे मोती।
कोटिक चन्द्र दिवाकर, सम राजत ज्योति॥
जय अम्बे गौरी…

शुम्भ-निशुम्भ बिदारे, महिषासुर घाती।
धूम्र विलोचन नैना, निशिदिन मदमाती॥
जय अम्बे गौरी….

चण्ड-मुण्ड संहारे, शोणित बीज हरे।
मधु-कैटभ दो‌उ मारे, सुर भयहीन करे॥
जय अम्बे गौरी….

ब्रहमाणी रुद्राणी तुम कमला रानी।
आगम-निगम-बखानी, तुम शिव पटरानी॥
जय अम्बे गौरी….

चौंसठ योगिनी मंगल गावत, नृत्य करत भैरूँ।
बाजत ताल मृदंगा, अरु बाजत डमरु॥
जय अम्बे गौरी….

तुम ही जग की माता, तुम ही हो भरता।
भक्‍तन की दु:ख हरता, सुख सम्पत्ति करता॥
जय अम्बे गौरी….

भुजा चार अति शोभित, वर-मुद्रा धारी।
मनवान्छित फल पावत, सेवत नर-नारी॥
जय अम्बे गौरी….

कन्चन थाल विराजत, अगर कपूर बाती।
श्रीमालकेतु में राजत, कोटि रतन ज्योति॥
जय अम्बे गौरी….

श्री अम्बेजी की आरती, जो को‌ई नर गावै।
कहत शिवानन्द स्वामी, सुख सम्पत्ति पावै॥
जय अम्बे गौरी….

मन्त्र पुष्पाञ्जलि:

ॐ वज्ञेन यज्ञमयन्त देवास्तानि धर्म्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त वत्र पूर्व्वे साध्या: सन्ति देवा: ॥

ॐ राजाधिराजाय प्रसह्य साहिने ।
नमो वयं वैश्रबणाय कुर्महे ।
स मे कामान् कामकामाय मह्यम् ।
कामेश्वरो वैश्रवणो ददातु ।

कुवेराय वैश्रवणाय महाराजाय नम: ॥

ॐ स्वस्ति । साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्टयं राज्यं महाराज्यमाधिपत्यमयं सर्वान्तपर्यायी स्यात् , सार्वभौम: सार्वायुष आन्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया एकराडिति ॥

तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥

ॐ व्विश्वतश्चक्षुरुत व्विश्वतो मुखो व्विश्वतो बाहुरुत व्विश्वतस्पात् ।
सम्बाहुभ्यां धमति सम्पतत्त्रैर्द्यावाभूमी जनयन्देव ऽएक: ॥

दुर्गा गायत्री

ॐ कात्यायन्यै च विद्यहे कन्यकुमारी च धीमहि ।
तन्नो दुर्गि: प्रचोदयात् ॥

सेवन्तिकावकुल-चम्पक-पाटलाब्जै:
पुन्नाग-जाति-करवीर-रसाल-पुष्पै: ।

बिल्व-प्रवाल-तुलसीदल-मञ्जरीभि:
त्वां पूजयामि जगदीश्वरि मे प्रसीद ॥

ॐ भूर्भुव: स्व: दुर्गादेव्यै नम:  मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि अर्पित करे)

प्रदक्षिणा

ॐ ये तीर्थांनि प्रचरन्ति सृका हस्ता निषङ्गिण: ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥

यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥
(प्रदक्षिणा करे)

प्रणाम:

ॐ दुर्गां शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मण: प्रियाम् ।
सर्वलोकप्रणेत्रीं च प्रणमामि सदा शिवाम् ॥१॥

नमस्ते देव-देवेशि नमस्ते ईप्सितप्रदे ।
नमस्ते जगतां धात्रि नमस्ते शङ्करप्रिये ॥२॥

नमस्ते सर्वहितार्थायै जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रसन्नेन मया कृत: ॥३॥
(प्रणाम करे)

क्षमा प्रार्थना

आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥१॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥२॥

कर्मणा मनसा वाचा पूजनं यन्मया कृतम् ।
तेन तुष्टिं समासाद्य प्रसीद परमेश्वरि ॥३॥

पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव: ।
पाहि मां सर्वदा मात: सर्वापापहरा भव ॥४॥

दुर्गास्तुति:

दुर्गे स्मृता हरसि भीतिमशेषजन्तो:
स्वस्थै: स्मृता मतिमतीव शुभां ददासि ।

दारिद्रयदुःखभयहारिणि का त्वदन्या ।
सर्वोपकारकरणाय सदार्द्रचित्ता ॥१॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥२॥

शरणागतदीनार्तपरित्राणपरायणे
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥३॥

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥४॥

इति दुर्गापूजनविधि:।


यह भी जानें–

  • नवरात्रि में कलश स्थापना कैसे करें?
  • श्री दुर्गा चालीसा
  • श्री दुर्गा सप्तशती पाठ
  • मार्कण्डेय कृत लघु दुर्गा सप्तशती पाठ
  • दुर्गा मानस पूजा